|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.73. अध्यायः 073
Mahabharata - Sabha Parva - Chapter Topics
व्यासम्प्रति युधिष्ठिरेण उत्पातफलप्रश्ने व्यासेन तत्कथनपूर्वकं कैलासगमनम ्॥ 1॥ व्यासोक्तं भ्रातृषु निवेद्य शोचतो युधिष्ठिरस्य अर्जुनेन समाश्वासनम्॥ 2। । यिधिष्ठिरेण समयकरणम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
`अनुसंसार्य नृपतीन्पाण्डवाः पाण्डवाग्रजम्।
अभिजग्मुर्महेष्वासा धर्मराजं युधिष्ठिरम्॥ 2-73-1(14195)
सोऽनुमेने महाबाहुर्भातॄंश्च सुहृदस्तथा'।
शिष्यैः परिवृतो व्यासः पुरस्तात्समपद्यत॥ 2-73-2(14196)
सोऽभ्ययादासनात्तूर्णं भ्रातृभिः परिवारितः।
पाद्येनासनदानेन पितामहमपूजयत्॥ 2-73-3(14197)
अथोपविश्य भगवान्काञ्चने परमासने।
आस्यतामिति चोवाच धर्मराजं युधिष्ठिरम्॥ 2-73-4(14198)
अथोपविष्टं राजानं भ्रातृभिः परिवारितम्।
उवाच भगवान्व्यासस्तत्तद्वाक्यविशारदः॥ 2-73-5(14199)
दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम्।
वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह॥ 2-73-6(14200)
आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते।
एवमुक्तः स कृष्णेन धर्मराजो युधिष्ठिरः॥ 2-73-7(14201)
अभिवाद्योपसङ्गृह्य पितामहमथाब्रवीत्॥ 2-73-8(14202)
युधिष्ठिर उवाच। 2-73-8x(1509)
संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः।
तस्य नान्योऽस्ति वक्ता वै त्वामृते द्विजपुङ्गव॥ 2-73-9(14203)
उत्पातांस्त्रिविधान्प्राह नारदो भगवानृषिः।
दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह॥ 2-73-10(14204)
`सुमहच्च फलं तेषां भवितेति न संशयः'।
अपि चैद्यस्य पतनाच्छान्तमौत्पातिकं महत्॥ 2-73-11(14205)
वैशम्पायन उवाच॥ 2-73-12x(1510)
राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः।
कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत्॥ 2-73-12(14206)
त्रयोदश समा राजन्नुत्पातानां फलं महत्।
सर्वक्षत्रविनाशाय भविष्यति विशाम्पते॥ 2-73-13(14207)
त्वामेकं कारणं कृत्वा कालेन भरतर्षभ।
समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत।
दुर्योधनापराधेन भीमार्जुनबलेन च॥ 2-73-14(14208)
स्वप्नं द्रक्ष्यसि राजेन्द्र तस्मिन्काल उपस्थिते।
तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर॥ 2-73-15(14209)
यान्तं द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम्।
नीलकण्ठं भवं स्थाणुं कपालिं त्रिपुरान्तकम्॥ 2-73-16(14210)
उग्रं रुद्रं पशुपतिं महादेवमुमापतिम्।
हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम्॥ 2-73-17(14211)
कैलासकूडप्रतिमे वृषभेऽवस्थितं शिवम्।
निरीक्षमाणं सततं पितृराजाश्रितां दिशम्॥ 2-73-18(14212)
एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते।
मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः॥ 2-73-19(14213)
स्वस्ति तेऽस्तु गमिष्यामि कैलासं पर्वतं प्रति।
अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय॥ 2-73-20(14214)
वैशम्पायन उवाच॥ 2-73-21x(1511)
एवमुक्त्वा स भगवान्कैलासं पर्वतं ययौ।
कृष्णद्वैपायनो व्यासः सह शिष्यैः सहानुगैः॥ 2-73-21(14215)
गते पितामहे राजा चिन्ताशोकसमन्वितः।
निः श्वसन्नुष्णमसकृत्तमेवार्थं विचिन्तयन्॥ 2-73-22(14216)
कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम्।
अवश्यमेव भविता यदुक्तं परमर्षिणा॥ 2-73-23(14217)
ततोऽब्रवीन्महातेजाः सर्वान्भ्रातॄन्युधिष्ठिरः।
श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत्॥ 2-73-24(14218)
तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः।
सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः॥ 2-73-25(14219)
कालेन निर्मितस्तात को ममार्थोऽस्ति जीवतः।
एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत॥ 2-73-26(14220)
मा राजन्कश्मलं घोरं प्रविशो बुद्धिनाशनम्।
सम्प्रधार्य महाराज यत्क्षमं तत्समाचर॥ 2-73-27(14221)
वैशम्पायन उवाच॥ 2-73-28x(1512)
ततोऽब्रवीत्सत्यधृतिर्भ्रातॄन्सर्वान्युधिष्ठिरः।
द्वैपायनस्य वचनं तत्रैव समचिन्तयत्॥ 2-73-28(14222)
अद्यप्रभृति भद्रं वः प्रतिज्ञां मे निबोधत।
त्रयोदश समास्तात को ममार्थो ऽस्ति जीवतः॥ 2-73-29(14223)
न प्रवक्ष्यामि परुषं भ्रातॄनन्यांश्च पार्थिवान्।
स्थितो निदेशे ज्ञातीनां योक्ष्ये तत्सुमुदाहरन्॥ 2-73-30(14224)
एवं मे वर्तमानस्य स्वसुतेऽष्वितरेषु च।
भेदो न भविता लोके भेदमूलो हि विग्रहः॥ 2-73-31(14225)
विग्रहं दूरतो रक्षन्प्रियाण्येव समाचरन्।
वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः॥ 2-73-32(14226)
भ्रातृर्ज्येष्ठस्य वचनं पाण्डवाः संनिशम्य तत।
तमेव समवर्तन्त धर्मराजहिते रताः॥ 2-73-33(14227)
संसत्सु समयं कृत्वा धर्मराड्भ्रातृभिः सह।
पितॄंस्तर्प्य यथान्यायं देवताश्च विशाम्पते॥ 2-73-34(14228)
कृतमङ्गलकल्यामो भ्रातृभिः पिरवारितः।
गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ॥ 2-73-35(14229)
युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम्।
दुर्योधनो महाराज शकुनिश्चापि सौबलः।
सभायां समणीयायां तत्रैवास्ते नराधिप॥ ॥ 2-73-36(14230)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि त्रिसप्ततितमोऽध्यायः॥ 73 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|